________________
२
श्रोश्रीवल्लभगणिविनिर्मिता "मृजौण शौचालकारयोः” माय॑ते मार्जिता । दधिसितामरिचादिकृतं रसालाख्यम् लेह्यम् । यत् सूदशास्त्रम्
"अ ढकं सुचिरपर्युषितस्य दध्नः खण्डस्य षोडशपलानि शशिप्रभस्य । सर्पिःपलं मधुपलं मरिचार्द्धकर्ष, शुण्ठ्याः पलार्द्धमथवा पलं चतुर्णाम् ॥१॥ श्लक्ष्णे पटे ललनया मृदुपाणि घृष्टा, कर्पूरधूलिसुरभीकृतभाण्डसंस्था ।
एषा वृकोदरकृता सरसा रसाला, या स्वादिता भगवता मधुसूदनेन" ॥२॥ "सेटक्तयोः" [४१३१८४] इतिः णेर्लक् । “मृजौक् शुद्धौ" इत्यस्य तु औदित्वाद् वेद । मार्जिता । "मर्च मर्जण् शब्दे" मय॑ते मर्जिता । "मृजौण शौचालङ्कारयोः" इत्यस्य तु रूढेः । शिखरिणीनाम्नी ।
पेषमपि पीयूषम्
"पां पाने" पीयते पेयूषम् । "कोरदूषाटरूष.” [उ. ५६१] इति ऊषे निपात्यते । “पीयि प्रीणने" सौत्रः । पीयते पीयूषम् । खलिफलिपृकुजलम्बि मञ्जिपीयि." [उ. ५६०] इति ऊषः । नवीनदुग्धनाम्नी ।
कूचिकाऽपि च कूर्चिका ॥२८॥ "कुङ् शब्दे" कूयते कूची । “कुपूसमिण्भ्यश्चट दीर्घश्च" [उ.११२] इति 'चट्' प्रत्ययो दीर्घश्च । स्वार्थिके के कूचिका । यद् वा "कूच् उभेदने" कूचति कुचिका । "नाम्नि पुंसि च" [५ । ३। १२१] इति णकः । कुञ्चिका इत्यपि । "कूची" इति एके पेठुः । कूर्च': क्षीरमस्तु स विद्यते अस्याः कूर्चिका-विनष्टदुग्धं "फेदरी" इति हि प्रसिद्धिः-"अतोऽनेकस्वरात्" [७।२ । ६] इति इकः ॥२८॥
द्रप्से द्रप्स्यमपि प्रोक्तम् "हपौच् हर्षमोहनयोः" दृप्यतेऽनेन द्रप्सम्, दध्यग्रम् । यन्माला
"द्रप्सं दध्यघनं तथा"। [ "मावावमिकमि०" [उ. ५६४] इति बहुवचनात् सः । तत्र दृप्यते द्रप्स्यम् । "शिक्यास्याढयमध्यविन्ध्यधिष्ण्य." [उ. ३६४] इति ये प्रत्यये निपात्यते । तत उभयत्र "स्पृशादिसृपो वा" [४ । ४ । ११२] इत्यनेनाऽकारागमः । द्रप्समेव वा द्रप्स्यम् । भेषजादित्वात् ट्यण् । प्रोक्तम्-कथितम् विद्वद्भिरिति गम्यम् । एतच्च
१ प्रा. र्चः किलाटीमस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org