________________
हैमनाममालाशिलोञ्छदीपिका कम्पयति अनेन कपटम् , पुंक्लीबलिङ्गस्तत्र । "कपटकीकटादयः" [उ. १४४] इति अटे निपात्यते । उपधीयते स्फटिकस्य इव सिन्दूरम् इति उपधा । "उपसर्गादातः" [५।३।११०] इति अङ् ।
चोरश्चौरोऽपि विज्ञेयः
"चुरण स्तेये" चोरयति चोरः । अच् । चुराशीलो वा । छत्रादित्वाद् अङ् । "चर भक्षणे च, चकाराद् गतौ" चरति वा चोरः । "कोरचोरमोर." [उ.४३४] इति ओरे निपात्यते । प्रज्ञाद्यणि, चौरः । विज्ञेयः-ज्ञातव्यः ।
स्तेयं स्तैन्यमपीष्यते ॥२६॥ स्तेनस्य-चोरस्य भावः स्तेयम् । “स्तेनान्नलुक् च" [७।११६४। इति यः । राजादित्वाद् ट्यणि स्तैन्यम् । स्तेनत्वम् स्तेनता च इष्यते-वाञ्छ्यते ॥२६॥
दाने प्रादेशनमपि
"दिशीत् अतिसर्जने" प्रादिश्यते प्रादेशनम् । “अनट्" [५।३।१२४] इत्यनट् । दीयते दानं त्यागस्तत्र । “अनट" [५।३।१२४] इति अनद ।
क्षमा स्यात् शान्तिरित्यपि । "क्षमौषि सहने" क्षमणम् क्षमा, क्षम्यते वा । “षितोऽ" [५।३।१०७] इति अङ् । "क्षमौच सहने" इत्यस्य "स्त्रियां क्तिः" [५।३।९१] इति क्लो क्षान्तिः ।
क्रोधनः कोपनः
"क्रुधंच कोपे" क्रुध्यति क्रोधनः । “भूषाक्रोधार्थ." [५।२।४२] इति अनः । "कुपच् क्रोधे" कोपशीलः कोपनः, कुप्यति वा । “भूषाक्रोधार्थ." [५।२।४२] इति अनः ।
तृष्णक पिपासितोऽपि कथ्यते ॥२७॥ "तृपंच पिपासायाम्" तृष्यति इत्येवंशीलः तृष्णक् । 'तृषिधृषिस्वपो नजिक [५।२।८०] इति नजिङ् । पिपासा जाता अस्य पिपासितः । तपः सञ्जातोऽस्येति तर्षितोऽपि । तारकादित्वाद् इतः । कथ्यते उच्यते ॥२७॥
भक्षकः स्यादाशिरोऽपि ..
'भक्षण अदने" भक्षयति भक्षकः । अश्नाति अत्ति आशिरः । “अशेर्णित्" [उ. ४१५] इति इरः ।
मार्जिता चापि मर्जिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org