________________
श्रीश्रीवल्लभगणिधिनिर्मिता
प्रतिचरोऽपि भृत्ये स्यात् प्रतिचरति प्रतिचरः । 'प्रति' इति आभिमुख्ये । भरणीयो भृत्यः । “भृगोऽसंज्ञायाम्" [५।१।४५] इति क्यप् । तत्र भृत्ये-किङ्करे ।
सम्माको बहुकरे बहुधान्यार्जक इति प्राहुः ॥२४॥ "मृजौक शुद्धौ” समन्तात् सम्यकप्रकारेण वा मार्टि सम्मार्जकः । “नाम्नि पुंसि च" [५।३।१२१] इति णकः । बहुधान्यम् अर्जयति संस्करोति बहुधान्यार्जकः। "नाम्नि पुंसि च" [५।३।१२१] इति णकः । बहु करोति बहुकरस्तत्र । इति प्राहुः-कथयन्ति पण्डिता इति गम्यम् ॥२४॥
विहङ्गिकायां च विहङ्गमाऽपि,
विहङ्गप्रतिकृतिश्चर्मादिमयी विहङ्गिका । "तस्य तुल्ये कः०" [७।१।१०८] इति कः । या भित्त्यादौ लम्बमाना स्थाप्यते, प्रयाणके च संधार्यते भारोद्वहनाय यष्टिः, चतुर्दण्डिका इति सभ्याः ।
___“शिक्याधारः स्कन्धग्राह्यो लगुडः" [ ] इति द्रमिलाः ।
विहायसा गच्छति विहङ्गमा । “नाम्नो गमः खड्डौ च विहायसस्तु विहः” [५।१११३१] इति खः । विहङ्गमप्रतिकृतित्वाद् वा विहङ्गमा ।
अथौर्ध्वदेहिके । और्वदैहिकमप्याहुः
ऊर्ध्वं देहाद् भवं और्वदेहिकं । मृतस्य दिवसे तमुद्दिश्य दानम्-पिण्डोदकादि । अध्यात्मादित्वाद् इकण । तस्मिन् और्वदेहिके अनुशतिकादिपाठमताश्रयणाद उभयपदवृद्धौ और्ध्वदैहिकम् ।
अनृजुः शण्ठ इत्यपि ॥२५॥ ___न ऋजुः अनृजुः । "शमूच् उपशमे" शाम्यति शण्ठः । “शमेलृक् च वा" [उ. १६५] इति ठः । विकल्पेन मकारलोपपक्षे शठोऽपि ॥२५॥ - मायावि-मायिकौ धूर्ते
माया विद्यतेऽस्य मायावी । “अस्तपोमायामेधास्रजो विन्” [७।२।४७] इति विन् । मायाऽस्यास्तीति मायिकः । “व्रीह्यादिभ्यस्तौ” [७।२।५] इति 'इक' प्रत्ययः । मायावान् अपि । धूर्वति-हिनस्ति धूर्तः वञ्चकस्तत्र । "शीरी" [उ. २०१] इति कित् तः ।
कपटे तूपधा मता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org