________________
हैमनाममालाशिलोऽदीपिका
अन्धजडशठेऽनेडमूकः स्यात् ॥२२॥
अमति-गच्छति अनेनेति अन्धः । " स्कन्धमिभ्यां धः" [उ. २५१] इति धः । जलति न तीक्ष्णो भवति, डलयोरैक्ये जडः । “शमूच् उपशमे" शाम्यति शठः । “शमेर्लुक् च वा" [उ.१६५ ] इति ठः, लुक् चान्तस्य । शठ कैतवे च शठति वा शठो धूर्तः । अन्धश्च जडश्च शठश्च अन्धजडशठं तस्मिन् अन्धजडशठे । समाहारद्वन्द्वत्वाद् एकवद्भावः । अनेडोऽपि अबर्करोऽपि मूकोsनेडमूकः । “अन्धो ह्यनेडमूकः स्यात् " [का. २ । प. ४५३. ६०९] इति हलायुधः । " अनेडमूकस्तु जडः" [ ] वैजयन्ती । " शठो ह्यनेडमूकः स्यात् " [ ] इति भागुरिः । जडे मुदेर-बठरगृहोल-हुड-होडा अपि । शठे कुटेरः, जहकः, मङ्किश्च ॥२२॥ वदान्यौ पृथगित्यन्ये दानशीलप्रियंवदौ ।
वदतः प्रियं ददानौ वदान्यौ " वदिसहिभ्यामान्यः " [ उ. ३८१] इति आन्यः । पृथग् इति भिन्नार्थौ । दाने शीलम् - स्वभावोऽस्य दानशीलः । प्रियं वदति प्रियंवदः । द्वन्द्वसमासे दानशीलप्रियम्वदौ । यदाह भागुरि:
१७
" शक्लो वदान्यः प्रियवाक् वदान्यो दानशीलकः " । [ ] इति । प्रियंवदे लोकयुः, हर्षयित्नुः, शफः मन्द्रः, मन्तुः च ।
मूर्खो यथोद्गतोऽपि
ति कार्ये मूर्खः, “पूमुहोः पुन्मूरौ च" [उ.८६ ] इति खः । मुहो 'मू: ' इत्यादेशश्च । यथैव उद्गतो जातस्तथैव स्थितः असंस्कृतत्वादिति यथोद्गतः । इभ्यः श्रीमानपि बुधैः स्मृतः ॥२३॥
इम् हस्तिनम् अर्हति इभ्यः । “दण्डादेर्यः " [ ६।४।१७८ ] इति यः । श्रीःलक्ष्मीर्विद्यतेऽस्य श्रीमान् । " तदस्यास्त्यस्मिन्निति मतुः । " [ ७/२/१] इति मतुः । बुधैः पण्डितैः स्मृतः - कथितः । दधाति श्रियम् इति " स्फुलिफलिपल्याद्भ्य इङ्गकु" [उ. १०२] इति इङ्गकि प्रत्यये धिङ्गोऽपि ॥२३॥
विधिक aaधकावपि वैवधिके
१. जे. कुठेरः ।
३
Jain Education International
विवधेन वीवधेन च भारेण पर्याहारेण वा हरति विवधिकः, वीवधिकः । पक्षे वैवधिकः । “विवधवीवधाद्वा" [ ६।४।२५ ] इति इकट्र - इकणौ प्रत्ययौ । अन्नाद्यर्थं यो भारं वहति तन्नामानि । लोके यस्य " अधोवाहिक " इति प्रसिद्धिः । स्त्रियाम् तु विवधिकी, aafधकी, वैवधिक इति ।
For Private & Personal Use Only
www.jainelibrary.org