SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिधिनिर्मिता सङ्कल्पे स्याद् विकल्पोऽपि संकल्पनम् सङ्कल्पः, मनसो व्यापारः, तत्र । विकल्पनम् विकल्पः । मनोऽनिन्द्रियमपि मन्यते जानाति अर्थात् मनः । “अस्" [उ.९५२] इति अस् । यदाह'तर्के "सर्वार्थग्रहणं मनः" इति । न विद्यते इन्द्रियं अस्य अनिन्द्रियम् । स्पृशानः, संस्पृशानः, स्तिभिः, जिगम्नुः, गान्त्रम्', वीकः, कन्तुः, मर्कः च । अथ ॥१२४॥ शर्म सौख्यम् "शश् हिंसायाम्" शणाति दुःखमिति शर्मम् । पुंक्लीबः । “अतिरीस्तुसुहुसृघृश०" [उ.३३८] इति मः । सरति दुःखम् याति अनेन सर्ममपि, दन्त्यादिः । सुखमेव सौख्यम् । भेषजादित्वाद् ट्यण् । स्योनम् प्रतीकः, नन्दयन्तः, मृडीकम् , गेष्णम् च । “शो तनूकरणे" श्यति दुःखम्-शातम् तालव्यादिरिति क्षीरस्वामी । पीडा बाधः पीडनम् पीडा । "भीषिभूषि०" [५।३।१०९] इति बहुवचनाद् अङ् । "बाधृोटने" रोटनम् प्रतिघातः । बाध्यतेऽनेन बाधः । घञ् । वधिः, तृप्रम् , दृप्रम . क्रूरः च । चर्चा चर्कोऽपि कथ्यते । "चर्चण अध्ययने" चर्चनम् चर्चा । “भीषिभूषि०" [५।३।१०९] इति अङ् । चर्च्यते चर्चः। विप्रतीसारोऽनुशये वैपरीत्येन प्रतिसरणम् विप्रतिसारः । एकदेशस्य विकृतत्वात् विप्रतीसारः । "घञ्युपसर्गस्य बहुलम्" [३।२।८६] इति वा दीर्घः । अनुशयनम् अनुशयः पश्चात्तापः तत्र। ___ अथार्था अपीन्द्रियार्थवत् ॥१२५॥ अर्थ्यन्ते-विचार्यन्ते अर्थाः । इन्द्रियैरर्थ्यन्ते इन्द्रियार्थाः । वदर्थः पूर्ववदवसेयः । गोचरनाम्नी ॥१२५॥ सुशीमस्तु सुषीमोऽपि १. जे. ज. प्रतौ 'यदाह' नास्ति । २. जे. गात्रम् । ३. जे. ज. स्पोनम् । ४. १. प्रा. प्रतौ-शो तनूकरणे' श्यति दुःखम् शातम् तालव्यादिरिति क्षीरस्वामी' इति पाठो नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy