SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ षष्ठः सामान्यकाण्डः उक्ता देवाधिदेवा मुक्ताः, संसारिणश्चतुर्गतयो देवा मास्तिर्यञ्चो नारकाश्च क्रमादसाधारणाङ्गसहिताः पञ्चभिः-पञ्चभिः काण्डैरिदानी तत्साधारणनामाभिधायिषष्ठसामान्यकाण्डस्य शिलोञ्छो विवियते जीवोऽपि चेतने "जीव प्राणधारणे" जीवति जीवः । अच् । चेतनाशीलश्चेतनः । व्यञ्जनान्तत्वाद् "इङितः०" [५।२।४ ४] इति अनः । चेतयते वा । “रम्यादिभ्यः" [५।३।१२६] इति कर्तरि अनट् । तत्र । अत्कः, अन्नः च । जन्तौ प्राणी "जनैचि प्रादुर्भावे" जायते जन्तुः । पुंक्लीबलिङ्गस्तत्र । “कृसिकमि०" [उ. ७७३] इति तुन् । प्राणाः सन्ति अस्य प्राणी। प्राणवान् , मरतः, मर्तः, अमतः, कणी-चिः, मन्दसानः, वयोधाः च । जन्मोऽपि जन्मनि ॥१२३॥ जायते जन्मः । “रुक्मग्रीष्म०" [उ. ३४६] इति मान्तो निपात्यते । "मन्." [५।१।१४७] इति मनि जन्म उत्पत्तिस्तत्र । सुवनः, योनिः, जतः च । प्रादुः इति जन्मवाचि अव्ययम् ॥१२३॥ जीवातुर्जीविते जीव्यते अत्रेति जीवातुः । पुंक्लीबलिङ्गः "जीवेरातुः" [उ. ७८२] इत्यनेन "जीव प्राणधारणे" इत्यस्माद् 'आतुः' प्रत्ययः । जीव्यतेऽत्रेति जीवितम् प्राणाः, तत्र । जिगन्तुः, जिगम्नुः मरठः, अरुः, सन्तोऽयम्, अनुः उकारान्तोऽयम् , गयः च। अथायुः पुंस्युदन्तोऽपि चायुषि । ५ एति गच्छति अनेन गत्यन्तरमित्यायुः । “कृवापाजि०" [उ. १] इति उण् । उदन्त इति उकारान्तः । एति-आगच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिदुर्गतेर्निष्क्रमितुमनसो जन्तोः इति आयुः । “इणो णित्" [उ. ९९८) इति उस् । यद् वा, आयाति भवाद्-भवान्तरं संक्रामतां जन्तूनाम् निश्चयेनोदयमागच्छतीति आयुः, जीवितकालः तत्र । पृषोदरादित्वात् साधुः । शिवानकोऽपि, तालव्यादिरयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy