________________
पञ्चमो नारककाण्डः अथ पञ्चमनारककाण्डस्य शिलोञ्छो विवियतेनारकास्तु नैरयिकाः
नरके भवा नारकाः। "भवे" [६।३।१२३] इति अण् । निरये भवा नैरयिकाः । "भवे" [६।३।१२३] इति इकण् । यौगिकत्वात् नारकिक-तारकोयादयोऽपि ।
पाताले तु तलं रसा ॥१२२॥ पतन्ति अस्मिन् पातालम् । “पतिकृलूभ्यो णित्" [उ. ४७९] इति आलः । पातम् अलतीति वा । तात तलम् । “अच्" । रस्यते रसा । भीमो भीमसन इति न्यायाद् वा । तलम् रसा ॥१२.२॥
. इति पञ्चमकाण्डस्य शिलोच्छोऽयं समर्थितः ।
इति अमुना प्रकारेण श्रीहैमनाममालायाः पञ्चमनारककाण्डस्य अयम् उक्त्वेन प्रत्यक्षः शिलोञ्छः समर्थितः-विरचित इत्यर्थः ।
इति श्रीमहत्खरतरगच्छीय-श्रीजयसागरमहोपाध्यायसन्तानीय-वाचनाचार्यश्रीभानुमेरुगणिशिष्यमुख्य-श्रीज्ञानविमलोपाध्यायविनेय-वाचनाचार्यश्रीवल्लभगणिविरचितायां श्रीहैमनाममालाशिलोज्छ
टीकायां पञ्चमनारककाण्डस्य शिलोञ्छः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org