________________
हैमनाममालाशिलोम्छदीपिका
७७
अथ तन्तुणे। स्मृतो वरुणपाशोऽपि
तन्तुवत् तुणति-कुटिलीभवति तन्तुणः-पृषोदरादित्वात्-ग्राहस्तत्र । वरुणस्येव पाशोऽस्य वरुणपाशः ।
नक्रे शकुमुखोऽपि ॥१२॥ न न कामति नकः, कुम्भीरः । “नञः क्रमिगमि." [उ. ४] इति डिद् 'अ' प्रत्ययः । नखादित्वाद् एकस्य नो लोपः अपरस्य अदभावः । तत्र । शङ्कोःकोलकस्येव मुखमस्य शङ्कुमुखः ॥१२१॥ उहारः कूमः __"उहृतुहृदुहृ अर्दने" ओहति'अर्दयति उहारः । “द्वारशृङ्गार." [उ. ४११] इति आरे निपात्यते । “नाम्युपान्त्य." [६।१।५४] इति के । उहः पीडा तम् इयर्ति-प्राप्नोतीति वा । किरति कुरति वा कूर्मः । “रुक्मग्रीष्म०" [उ. ३४६] इति 'मे' निपात्यते । पुटीरः, पीथः च ।।
इत्येष तिर्यक्काण्डः शिलोन्छितः। इति-अमुना प्रकारेण एष-उक्तत्वेन प्रत्यक्षः तिर्यकाण्डः श्रीहैमनाममालाचतुर्थकाण्डः शिलोञ्छितः शिलोञ्छीकृत इत्यर्थः । इति श्रीमबृहत्खरतरगच्छीय-श्रीजयसागरमहोपाध्यायसन्तानीय
वाचनाचार्यश्रीभानुमेरुगणिशिष्यमुख्य-श्रीज्ञानविमलोपाध्यायविनेय-वाचनाचार्यश्रीवल्लभगणिविरचितायाम्
श्रीहैमनाममालाशिलोछटीकायाम्
चतुर्थतिर्यकाण्डस्य शिलोञ्छः समाप्तः । १. भोहयति । २ जे. 'करति वा नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org