________________
७६
श्रीश्रीवल्लभगणिविनिर्मिता कलविके-कुलिङ्कोऽपि
__ कलते शब्दायते कलविङ्कः । “कलेरविः " [उ. ६५] इति 'अविङ्कः' प्रत्ययः । चटकस्तत्र । “कुल बन्धुसंस्त्यानयोः" । कोलति कुलिङ्कः । “कुलिचिरिभ्यामिङ्कक्" [उ. ६४] इति इङ्कक् । स्वार्थिक के, कुलिङ्कक इत्ययमुक्तोऽभिधानचिन्तामणौ ।
दात्यूहे कालकण्ठकः ॥११९॥ दात्योहोऽपि
ददाति आनन्दम् दात्यूहः । “दस्त्यूहः" [उ.५९४] इति त्यूहः, तत्र । कालः कण्ठोऽस्य कालकण्ठः । स्वार्थिके के, कालकण्ठकः । ददाति आनन्दम् दात्योहः । वाहुलकात् 'त्योहः' प्रत्ययः ।
बलाका बकेरुका बिसकण्टिका । बलम् अकति बलाका । "बल प्राणनधान्यावरोधयोः" बलति वा । "शलिबलिपति." [उ. ३४] इति आकः । बकैरुच्यते बकेरुका। घञि, पृषोदरादित्वात् साधुः । बिसमिव कण्टोऽस्याः बिसकण्टिका । मेधाव्यपि शुके
मेधा विद्यतेऽस्य मेधावी । “अस्तपोमायामेधानजो विन्" [७।२।४७] इति विन् । शवति शुकः । “विचिपुषि०" [उ. २२] इति कित् कः । “शुक गतौ" शोकति गच्छति वा । “अच्" [५।१।४९] इति अच् ।
तैलपायिकायां निशाटनी ॥१२०॥ तैलम् पिबतीति तैलपायिका–णकः प्रत्ययः---नित्यमास्यविकासात् । निशायाम् अटति-गच्छति निशाटनो । “अनट्" [५।३।१२४] इति अनट् । वल्गुलिकानाम्नी ॥१२०॥ कपोते पारावतोऽपि
"कबूड् वर्णे" कब्यते कपोतः । “कबेरोतः प् च" [उ.२१७] इति ओतः । धातोर्बकारस्य पत्वं च, तत्र । पारम् आपतति पारापतः । "जपादीनां पो व" [२।३।१०५] इति पस्य वत्वे पारावतः ।।
उक्ताः खचराः पञ्चेन्द्रियाः । अथ जलचरानाह
मत्स्ये मच्छ: माद्यति जलेन मत्स्यः । “मदेः स्यः" [उ. ३८३] इति स्यः, तत्र । “मदैच् हर्षे" माद्यति पानीयेव मच्छः । “तुदिमदिपद्यदि०" [उ. १२४] इति 'छक्' प्रत्ययः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org