________________
यदुसुन्दर महाकाव्य
दुर्वारवैरिनृपवारिधिमाथमन्थ
शैलः पुरि स्वयमय स्मर एव मूर्तः ।
भूत्वा त्वमस्य रतिरेव विराद्धपूर्व
मीशानमाशु भज तं किल वां प्रसत्यै ॥ ७९ ॥
मैवेयकप्रति सरप्रतिमैरकुण्ठ
श्रीकण्ठकण्ठकरवेष्टनभुग्नभोगैः ।
भोगीन्द्रभङ्गिभजनैरिव भोगिलोकः
Jain Education International
स्वर्लोकमासददिवास्य विभाति पुर्याम् ||८०||
अस्योर्वीपतिभालभूषण मणेर्यद्दानशौण्डात्करान्
निष्णाता करवालकल्पलतिका सङ्कल्य तल्पातिगम् । या प्रत्यर्थिमहीक्षितां क्षितितलप्राग्भारभोगार्थिनां
सौव विततार सारसुखद साम्राज्यमत्यद्भुतम्॥ ८१ ॥
आरादाराधने तत्क्षितिपतिकरणत्राणकोटीरकोटी
रत्नच्छायानिखातक्रमनखरमयूखद्युतिद्यततेऽसौ । अस्या जिक्षेत्र वा जिव्रजखुरखुरलीखेलनोद्भुतधूली
धारा स्वर्गापगायाः कनककमलिनीकन्दनिः स्यन्दहेतुः ॥८२॥
स त्वां कनत्कनक केतकगर्भगात्रि ।
किञ्चित्समीरणसमीरितसारसाक्षिम् ! आश्लिष्य बाहुविनियन्त्रणजातरेराम -
हर्षः प्रकर्षसुखसम्मदमादधातु ॥ ८३ ॥
प्रोल्लासयन्कुवलयं सुदृशोः प्रमोद
मापादयन्स विबुधानपि सत्कलश्च । राजा तथाऽपि तमथो सुदती निरासे
चातुर्यचारिमसुधानिधिमब्जिनीव ॥ ८४ ॥
For Private & Personal Use Only
७५
www.jainelibrary.org