________________
७६
Jain Education International
पद्मसुन्दरसूरिविरचित
वैरनिकीमथ विलोक्य विलोलनेत्रा -
मन्यं नृपं समनयन्ननु यानधुर्याः । द्वीपान्तरं ननु निशामुखमाप्य सद्यः सौ
विलुलितामिव सौरवाहाः ||८५ ||
चान्द्रीकलेव शितिपक्षदिन क्षणं य
भूमाधवं व्यतियती सुदती जगाम । सोऽनादृतः स्वपरिभावतमिस्र सख्य-
वैमुख्यमाप निजदुर्यशसा चिरेण ||८६||
भूयः सरोरुहमुखीमवरोधरक्षा
सावीवदन्नृपनिरूपणबद्धकक्षा । साकेत भूपरिवृढे दृढमस्ति चित्तं
चेत्त्वं कुरङ्गचपलाक्षि । विचिन्तयाशु ॥८७॥
वैवस्वतान्वयपयोनिधिवर्द्धनेन्दु
रेष प्रतीतरघुवंशकुलप्रदीपः । यत्पूर्वजः सकलभूतलभूमिपाल -
भाकभूषणमभूद्भुवि रामचन्द्रः ||८८||
सोऽयं जगज्जनविलोचनचारुचन्द्रः
यदोः प्रतापकुलिशाग्निरमित्रकान्ता
प्रत्यर्थिपार्थिवतमित्रसहस्रभानुः ।
—
नेत्राम्भसाऽपि न च शाम्यति दुस्सहाचिः ॥ ८९ ॥
आकारौऽभ्यवहारसन्निभ इति प्राचान्द्रिवाचां प्रथा
तथ्यैतस्य नृपस्य शत्रुघरणीसंक्रन्दनैणीदृशाम् । नेत्राणां किल कज्जलं कवलयत्कालः करालस्तरां
विस्फूर्ज करवाल एष समभूतस्मादकस्मादपि ॥९०॥
For Private & Personal Use Only
www.jainelibrary.org