________________
पद्मसुन्दरसरिविरचित एतां ततोऽपि विमुखी सुमुखीं निरीक्ष्य
जन्या नृपान्तरमथो गमयांबभूवुः । पात्रं स्वभूमिपरिवर्तनतोऽन्यभूमि
शैलालिनः परिषदीव विचित्ररङ्गम् ।।७३।।
तां द्वाःस्थिता मुहुरथ स्त्रितमामवादी
दुत्फुल्लनीलनलिनाभलसत्तमाक्षि ! । त्वं काशिमण्डलपुरन्दरमिन्दिराया
लीलालयं कलय कोमलदर्शनेन ॥७४।।
मुक्ता मुमुक्षव इति द्वितयेऽपि यस्यां
ब्रह्मकताननिलयं पदमक्षरं तत् । अध्यास्य काशिरिति साऽस्य निरूपयन्ति
ब्रह्मोत्तमेव जगदेकरसानुविद्धम् ॥७५।।
आरूढयोगिचरणव्यतिषङ्गपूता
तस्मादियं विषयिणामपि मुक्तिहेतुः । ज्ञानात्मनां शुभवती भवतीव्रभोग
स्वभॊगमोक्षफलदां पुरमस्य पश्य ।।७६॥
चूडामणिः शिवपुरी वसुधाङ्गनाया
मन्दाकिनी विमलमौक्तिकहारयष्टिः । सन्नायकः शिव इति त्रितयं चकास्ति
देशे जगज्जनमहोदयहेतुरस्य ।।७७।।
त्रिस्रोतसो ललितवारिविहारकेलौ
हारभ्रमं वितनुतां जलबिन्दुवृन्दम् । पीठे लुठत्तव कठोरकुचद्वयस्य
रगत्तरङ्गभरभङ्गजमम्बुजाक्षि ! ॥७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org