________________
यदुसुन्दरमहाकाव्य
गौडावनीन्द्रबलवाहचयस्य वैर..
___ मासीत्सपत्नधरणीधवयौवतस्य । आद्यश्चिचीपति खुरोद्धतरेणुराशि-.
मन्यन्निरस्यति निजाश्रुजलपवाहैः ।।६७।।
आदत्त यो धरणिमण्डलमाशुवैरि
राजवजस्य सुरमण्डलमुत्ससर्ज । आच्छिद्य हारमथ तद्रमणीगणस्य
निःसूत्रमश्रुकणमौक्तिकतारहारम् ॥६८।।
एतत्करालकरवालनिकृत्तकुम्भि
___ कुम्भश्छलोच्छलिंतशुक्ति जकैतवेन । स्वेदोदविन्दव इवारिजयेन्दिराया
निर्यान्त्यमुष्य करचण्डकरप्रतापात् ॥६९।।
एतत्कीर्तिसितीकृते जगति यद्वीचिस्वनैः स्वर्धनी
- मीशः शेषमशेषपन्नगगणः फूत्कारतारारवैः । सुत्रामा पटुबंहितैर्निजगजं वेदाथ जिज्ञासया
ताराभिस्तदकारि लाञ्छनमयं श शशाङ्केऽक्कनम् ॥७॥
एतेन गौरि ! नवमेदुरमेघमाला
. संकाशमेचकरुचेव तडिल्लतायाः । । शोभां बिभर्तु परिरम्भविजृम्भितं ते . लीलाचमत्कृतचलाचललोचनायाः ॥७१॥
सश्रीकमप्यजडभावमपास्तदोष
सा भूपमैक्षत न कैरविणीव मित्रम् । रम्यः स वा न च युवा किमियं न विज्ञा
. यद्वा गरीयसितरा नियतेः समीहा ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org