________________
पद्मसुन्दरसरिविरचित तत्र स्वपत्युरतिहार्दतया हृतार्द्ध--
देहा विदग्धरमणी रमणीयमूर्तिः । गौरी त्ववन्तिविषये तरुणि ! त्वयेष्टा
__ भूयादवन्ध्यवरदा वरदानदक्षा ॥६॥
गौरीपतेः शिरसि चन्द्रकला विधत्ते
विक्रष्टशब्दनिगदाध्ययनान्तरायम् । यत्राङ्गनासु नृपतेः कृतविप्रियस्य
तद्बाहुपाशविनियन्त्रणमेव शिष्टिः ।।६२।।
दग्धं हि पल्लवयतु स्मरमेष तत्ते
पाणिग्रहात्पुलककण्टकिताङ्गयष्टिः । चण्डीशचन्द्रकिरणामृतपूरसेकैः
__ लब्धाङ्कुरं किल सदातनमेव तत्र ॥६३॥
तं भूपुरन्दरसुता स्मररूपभूपं
नाङ्गीचकार कुटिलेक्षणवीक्षणात्ताम् । जन्यः परत्र च निनाय जनीमिवास्मा
च्चान्द्री कलां बहुलपक्षतिरकविम्बात् ।।६।।
दौवारिकी पुनरभाषत भामिनि ! त्व-.
माखण्डले सकलगौडवसुन्धरायाः । डिण्डीरपाण्डुरयशःप्रसरत्प्रतापे
लीलाकटाक्षविकटायितमारभस्व ॥६५॥
एतत्समीकभुवि वाजिखुरोत्थधूली--
धारान्धकारितनभोऽपि धरायतेऽथ । एतच्छरक्षतरिपुक्षितिपालवृन्दैः
स्वर्गाङ्गनापरिवृतैस्त्रिदिवायते भूः ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org