________________
यदुसुन्दरमहाकाव्य
७१
क्रीडागिरिः सुरगिरिः किल पारिजाता
येषामभीष्टफलदा वनपादपास्ते । चिन्तामणिः सुरगवी बहु सन्निधत्ते ।
तेषां विलासललितैरमरी भव त्वम् ।।५५॥
वाला स्वमूर्ध्नि करकुड्मलसञ्जनेन
गीर्वाणवृन्दमुपनम्रशिरोधराऽऽसीत् । भीत्या चलं निजगं चलमादधानां ।
___ तामन्वमस्त चलितुं करुणारुणं तत् ॥५६॥
ते वीक्ष्य चन्द्रवदनामुखचन्द्रपाना
न्तर्धानतः सुरगणाननकैरवालीम् । म्लिष्टामनैषुरपरं विषयान्तमेनां
मेघावली नु पवना इव यानवाहाः ॥५७॥
सा तामवीभणदथ प्रतिहाररक्षा
राकानिशाकरसगर्भमुखारविन्दे । सौन्दर्यतर्जितरतीशसुरेन्द्रचन्द्रा
निन्द्रानथ क्षितितलस्य निशामय त्वम् ॥५८॥
एष द्विषत्कुमुदकाननदैन्यमुद्रा
सम्पादनप्रवणविक्रमविश्वचक्षुः । श्रीमानवन्तिपतिरुज्ज्वलकीर्तिपूर
कपूरपूरितदिगाननपंक्तिरास्ते ॥५२।।
सिप्रासखी सलिलकेलिकलासु तत्र
संश्लिष्यतु प्रबलतुङ्गतरङ्गहस्तैः । त्वां कामसागरतरीमिव गाहमानां
फुल्लारविन्दनयनेन निमालयन्ती ।।६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org