________________
पद्मसुन्दरसूरिविरचित सभ्याधिवासकृतसौरभधूपधूम
भूमभ्रमर्मुदिरवृन्दमिवाकलय्य । मायूरमारचितताण्डवडम्बरेण
केकारखं किल करोति विमुक्तकण्ठम् ॥४९।।
काश्मीरजन्मघनचन्दनचन्द्रपक
मङ्गल्यमाल्यपरिकर्मजगन्धलुब्धैः । भृङ्गैरुपयुपरि राजकमापतद्भिः
धत्ते स्म तत्समदवारणराजलक्ष्मीम् ।।५०।।
उच्चैस्ततान ततमत्र घनं घनं वा
नद्धं ननाद सुषिरं श्रुतिरन्ध्रपेयम् । सन्मागधाः स्फुटमुदस्तकरा निपेटु
नानृपालकुलपौरुषकीर्तनानि ॥५१।।
पुलक्षणा सकलभूपतिभूरिवंश
वीर्यानुभावकथनप्रवणा विदग्धा । संव्याजहार किल दक्षिणपक्षसंस्था
कन्या कनत्कनकवेत्रवतीति नारी ॥५२।।
एषा सभा मखभुजां विजिगीषयेव
सेना स्मरस्य जगतां ननु नैकरूपा । रम्भोरु ! ताववरं वृणु कञ्चनैक
मात्मीयचित्तपरिचिन्तितमप्यमुष्याम् ॥५३।।
दृष्टेनिसर्गजमुदीक्षणतो निमेष
राहित्यमेषु न च तन्वितया मुखेन्दोः । द्वधा सपीतिरधरामृततर्पणाद्वा
देवेष्ववन्ध्यमपि जन्म तथाविधंस्तान् ॥५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org