________________
यदुसुन्दरमहाकाव्य
अथ क्षितीन्द्रो नृपचित्तवारिधि
स्मरोमितोद्वेलनचारुचन्द्रिकाम् । निजाङ्गजां वारणराजगामिनी
मजूहवद्राजसभा सभासुरः ॥३१॥
निपीय मध्येसभमङ्गजप्रभा
विभातभूषामणिदीप्तिदन्तुराम् । समाजिहानामरविन्दलोचना
ममाणि भूपैरिति कामविक्लवैः ॥३२॥
इयं नु शृङ्गाररसैकवारिधे
विलोलकल्लोलपरम्परा परा । स्फुरदुकूलांशुकतारहारताऽ
नुकारिडिण्डीरचया विराजते ॥३३॥
इयं नु सम्भव परा जनश्रुतिः
श्रुता सुरैः कामितकामविभ्रमा । अथो किमस्मन्नयनार्थितर्पणे
प्रकल्पिता कल्पलतेव जङ्गमा ॥३४॥
यदीयसौन्दर्यसुधासुधाशना
वयं नु सौवर्गसुख लभामहे । ध्रुवं महानन्दपदं वरिष्यतेऽ
वसीयसंवेशनसंविदा मुदा ॥३५।।
रवीन्दुबिम्बे इव कुण्डलद्वयी
मिषेण भग्ने मुखमण्डलश्रिया । उपास्तिमाधत्त इति व्यलीकता
निवर्हणाय स्फुटमेतदीयया ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org