________________
पद्मसुन्दरसूरिविरचित इदं हि साक्षादमृतद्यतिर्मुखं
दिवो मृगाङ्कः स्फुटमौपचारिकः । सखजरीटं नयनाम्बुजद्वयं
व्यधादिवास्याः कुतुकेन किं विधिः ॥३७।।
मनोभवो मुख्यमिदं धनुर्धवौ
किमङ्ग नाङ्गीकुरुतां जिगीषया । तथैतदीये गुणवृत्तिपुष्पजं
जहातु पूर्वो हि परेण बाध्यते ॥३८॥
रते रतीशस्य च सौधयुग्मकं
नवं वयः कारुरलञ्चकार यत् । तदनमुत्तम्भितकुम्भशेखरं
विभाति भर्मद्युति तत्कुचद्वयम् ॥३९।।
मृणालनालादपि तद्भुजद्वयी
करं नु जग्राह विजित्य तत्समम् । ततः करोऽस्या गृहमद्भुतश्रियः
प्रतीयत्ते स्म त्रिजगज्जनोक्तिषु ॥४०॥
'विधिन चैनां निजकर्मकर्मठः
ससर्ज यः शान्तरसैकमन्दधीः । इमां नु शृङ्गारसुधातरङ्गिणी
स्मरः स्वशिल्पैः सुतनूमजीजनत् ॥४१॥
तदास्यनिःश्वासमिषेण मालयाs
निलः स्वरेण. स्फुटकोकिलस्वनः । प्रसूनताऽम्रदिमाऽनुभाव्यते
मधुः स्वलक्ष्मी किममूमजीघटत् ।।४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org