________________
पद्मसुन्दरसूरिविरचित
अपारयन्तस्त्रि
निरीक्षितु पौरजना हि तत्कृते । स्वसर्गनिर्माणरहस्यमत्र तान्
न्यदर्शयान इवाखिलान्विधिः ॥२५॥
स तत्र शक्रोऽत्र महीविडोजसः
___ सहस्रशः कामितकल्पभूरुहः । ततोऽत्र वृन्दारकवृन्दता घना
दिवं जिगायेव किल स्वयम्वरः ॥२६॥
दिवोधवः पङ्क्तिशतानि चक्षुषां
सदासदां कान्तिसुधासपीतये । व्यधाद्विधाता शतयज्ञकर्मणा
मपप्रथत्तेन सहस्रलोचनः ॥२७॥
गिराम्पति किनिकायनायकः
प्रगल्भसूरिः सकलार्थनिनवः । स वर्णयामास सभा प्रभाषणा
दवाप वाचस्पतिनामधेयताम् ॥२८॥
दिविस्थितं देवतयौवतं वर
__ प्रवर्यसौन्दर्यसुधासरस्वति । स्वलोचनाम्भोजकदम्बतां नु तां
न्यमज्जयद्या न निमेषमावहत् ॥२९।।
चभुः सदस्या नृपमौलिशेखरा
मनोभवेषु व्रणदुःखदुर्विधाः । किमु स्मरन्तः कनकेष्टदेवता
मिवैकताना निभृताङ्गयष्टयः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org