________________
यदुसुन्दरमहा काव्य
अहो ! असूयाऽभ्युदयो गुणिद्रुहां यतोऽनवद्येऽपि गुणेऽवमानना ।
परस्य दोषान्तरम सूचना
दसूनृता सूचकतैव सा नृणाम् ॥ १९ ॥
गिरीशभालज्वलने जुहाव यां
तनूमनेका कृतिलब्धिसिद्धये । स्मरो युवानस्त इमे पृथग्विधा
बभुः कला केलिकलापमूर्तयः ||२०||
स्मरस्वरूपान् दधतोऽतिसुन्दरान्
तनू मनूनांस्तरुणाननेकशः । East विविशे वशात्मना
स्मरेण तप्तेन समीक्ष्य मन्महे ॥ २१ ॥
नृरत्नरूपैर्वसुधा सुधाकरे
Jain Education International
ज्वलन्मणीनां मुकुटामचुम्बिनाम् ।
सुसङ्गतं तत्सदृशैर्हि तादृशां
विभाति रत्नैः सह रत्नता तुला ||२२||
महीभुजां कल्पलतेव दोर्द्वयी
रराज शोणाङ्गुलिपल्लवायिता । सुपुष्पिता काञ्चनरत्नभूषणै
येथेष्टदानात्पलितेव याऽर्थिनाम् ||२३||
ततः कनत्काञ्चनपीठपद्धतौ
स तानुपावीविशदर्चितान्नृपः ।
सुमेरुकूटेष्विव ते सुधान्धसो
व्यदीदिपन्नुज्ज्वलहारहारिणः ॥ २४ ॥
For Private & Personal Use Only
६५
www.jainelibrary.org