________________
पदमसुन्दरसरिविरचित
गतश्रमस्वेदजलाः प्रकीर्णक
प्रवीजनैश्चित्रवितानसंश्रयैः । प्रफुल्लमाल्या नवदूष्यभूषिता
न नाकिनोऽस्मिन्विभिदुनायकाः ।।१३।।
दिनं व्यतीयुः क्षितिपालनन्दिनी--
चरित्रचित्राणि गृहाणि वीक्ष्य ते । निशामपि स्वप्नरतोपगृहन
प्रसङ्गरङ्गव्यतिषङ्गविभ्रमैः ॥१४॥
अथास्य दूतानुनयाभिमन्त्रणैः
समाहृता राजसमाजमण्डपम् । स्वयम्वराभिख्यमलं विभूषणै
विभूषयन्ति स्म विभूषिता नृपाः ।।१५।।
महामसारोपलबद्धचत्वरं
बलक्षबालध्यजनालिसङ्कुलम् । बभौ सुवर्णाभरणांशुपिञ्जरं
सरः सराजीवमिव स्वयम्वरम् ।।१६।।
सुधाभुजो मानुषरूपमीक्षणै
निपीय सौन्दर्यसुधातरङ्गितम् । समत्सरभृकुटिदन्तुन्तिरां
क्षणादवज्ञातरलां दृशं व्यधुः
॥१७॥
महीमहेन्द्राः परिपीय साधिम
स्पृशां सुराणां परभागा दृशा । तदैव तेषामनिमेषतां दृशो
निनिन्दुरुन्मेषितदोषमत्सराः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org