________________
यदुसुन्दरमहाकाव्य
६३
निजोमिकामार्पयदेषशौरये
स वेद तां दिव्यविभूतिभूषिताम् । प्रतारकाणामतिगौरवः स्फुट
विशङ्कनीयः सखिषु प्रसेदुषाम् ॥७॥
ततश्च तस्याः परिधानतो यदुः
स राजराजो विरराज चापरः । तदा द्विमूर्तिधनदः प्रथामगा
द्यथातथं सगिरते ध्रुवं जनः ॥८॥
विदूरदेशेभ्य इवैत्य नैगमाः
क्षणात्समीयुः कनकार्थलिप्सवः । विदिद्युते तत्पुटभेदनं च तैः
सुरप्रकाण्डैः किल किं सुरालयः ॥९॥
विचित्रसौषस्थितिसाभिवादन
प्रणामविश्राणनगौरवोक्तिभिः । स तान्हरिश्चन्द्रनृपः क्षितीश्वरा
नुपाचरत्काममुपासनापटुः ॥१०!।
सगौरवं स्वाश्रयविष्टरार्पणं
तथातिथिभ्यः प्रियवाग्विसर्जनम् । अथातिथेयी गृहमेधसामिति
स्थितिर्न चापैति कदा सदातनी ॥११॥
प्रबोधसंस्कारवती: सरस्वती
निरूपयन्तोऽप्यनिमेषदृष्टयः । पुरचिनिध्यानविधौ सुरा नरा.
न भेदमापुः किल तत्र सङ्गताः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org