________________
॥ चतुर्थः सर्गः॥
अथाययौ राजकुमारमण्डली
स्वधोरणैरद्भुतवेषशेखरा । परस्परस्पर्द्धिपुरागमोत्सुका
स्वयम्वरा सङ्कलितस्वयम्वरम् ।।१।।
अहंयवः सङ्गरधीरविक्रमाः
स्ववर्यसौन्दर्यनिरस्तनिर्जराः । बभुः कुमाराः श्रुतसिन्धुमन्दराः
पथि प्रयान्तः स्मरमूर्तिसुन्दराः ।।२।। रसातलं नाध्वविहीनमध्वग
युवप्रवेकैर्विरलो न सत्पथः । न वा युवा कामशरैरपीडितो
बभूव भूः सङ्खलतार्तिभारभुः ॥३॥
महीभृतां सैनिकवाजिवारणैः
पदाजिरथ्याऽश्वतरक्रमेलकैः । विरेजिरे राजपथाः सुसफुला
न सर्पपेणान्तरमाध्यत क्षितौ ॥४॥
अखण्डभूमण्डलमण्डनेश्वरा
स्तथान्तरीपप्रभविष्णवो नृपाः । परे सुरेशा नरवाहनादयो ।
गुणेन तस्या नु सिता इवैयरुः ।।५।।
निराकृतोऽपि स्फुटदूतजस्पितै
मिथो विजातीयतयाप्यसङ्गतः । धनाधिपो राजसमाजमाययौ
न मानमान्धं गणयन्त्यभीप्सवः ॥६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org