________________
यदुसुन्दरमहाकाव्य
इति विरहजप्रेमालापात्प्रतीत्य निजं पति
चकितहृदया लज्जासिन्धौ ममज्ज मनस्विनी । तदिति हृदया कूतं साक्षात्सखीवदनेन या
निगदितवती भर्तुः प्रेमप्रमोदसमृद्धये ॥१९९।।
इयमियमये ! धन्यस्वाश्रुप्रवाहपरम्परां
तव पदयुगातिथ्यं कृत्वा जगो वरवणिनी । तब विरहजे वह्नौ प्राण। भया जवसीकृताः
किमितेि कमिता यक्षो मत्तः परं यदतः परम् ।।२०।।
अपि सुरजनो मान्यः साक्षान्मम त्वयि जीवित
ननु रुचिभिदा नानारूपा विभाति यदङ्गिनाम् । प्रकटितजगद्वस्तुस्तोमं विहाय विभाकरं
किल शशधरे प्रेम्णा धत्तां मुदं नु कुमुद्वती ।।२०१॥
अथ धनपतेमन्तु मन्ता भवानपि तत्कृते
परिणयमखे संतप्र्येनं स्वयम्वरडम्बरे । अहमिति वरीताऽस्मि प्रायो भवन्तमनन्यधीः
कठिनहृदयस्त्वं कामो वा तथाऽस्तु न चामरः ।।२०२॥
शौरिश्चन्द्रमुखीमुखोद्गतसुधाधाराऽनुकारागिरः
श्रुत्वा दूत्यरहस्यमीश्वरसखे सम्यक्समाख्यातवान् । सद्भतार्थनिवेदनात्समतुषत्तस्मिन्स दृष्टावधि
श्चतःशुद्धतया यथार्थकथनं सम्यग्दृशां प्रीतये ।।२०३॥
इति श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरुविनेयपण्डितेशश्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाग्नि महाकाव्ये वसुदेव
कनकाऽनुलापो नाम तृतीयः सर्गः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org