________________
यदुसुन्दरमहाकाव्य
सा वैशसेन सुदती रुदती विहस्ता
सख्यौ स्म रोदयति किं किल रोदसीव । प्राणेशलाभकृतविघ्नविनिर्णयार्ते
रुझान्तबुद्धिरनिशं विललाप बाला ॥१७५।।
हंहो विधे ! यदलिखः किल भालपट्टे
प्रेयान्यदुस्तव भविष्णुरलं विलम्वैः । तम्कि विलुम्पसि लिपिं करुणालय हि
धिक् ते मनो विकरुण विरुणद्धि यन्माम् ।।१७६॥
न त्व' मनः ! कुलिशमाशुभिदामुपैषि
कामाशुगैर्भवसि लोहमथो न वहनेः । यद्विप्रलम्भजनितान्न विलीयसे तत्
- किं क्षोदकृत्तिलकटं करवाणि यत्त्वाम् ॥१७७॥
प्राणा ! वियोगदहनज्वलदूषरेऽस्मिन्
मन्मानसे धृतिरहो । प्रतिभाति किं वा । मत्प्राणनाथदिशमप्यनिला भवन्तः
संश्लिष्य तन्मम जनुः फलिनं विदध्वम् ।।१७८॥
हे लोचने ! प्रियविलोकनखञ्जिताशे !
धत्तः किमालविरलायितचापलानि । स्व कल्मष किमिति नाश्रुजलाभिषेकान्
मृष्टो निजासुदयितव्यवधानदुःस्थम्
॥१७९॥
साधारिका व्यतियती यदि कल्पकोटि
स्तज्जीवन कियदभिक्षणकल्पनेन ।' क्वास्मादृशामथ मृतिर्दयित मनश्च
प्राणानिलस्तदपि नोज्झितुमीहतेऽन्तः ॥१८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org