________________
यदुसुन्दरमहाकाव्य
तच्चित्रमत्र पृथुभामिनि ! भासते मे
यत्किन्नरेशमवधीर्य सुवर्णरम्यम् । तावन्नरेशमपि वर्णविहीयमान
मङ्गीकरोषि कतमा तव चातुरीयम्
॥१६३॥
तत्स्वर्गिणा सुरतसागरपूरपार
लीलाविलोललहरीः परिचेतुकामा । त्वं तेन यौवनमिदं फलिनं विधेहि
किं ते नरेण तनुसातकणेन तुष्टिः
॥१६४।।
तन्मानसं त्वयि नितान्तनिखातमास्ते
चामीकरेऽरुणमणीव मनोहराङ्गि ! । त्वन्मानसं किमु ततो विमुखं न को वा
चिन्तामणि स्वशरणागतमाद्रियेत
॥१६५।।
माहाल्यतो दिविषदां मनुजोऽपि दिव्य
शक्तीः प्रपद्य दिविषत्त्वमियति सद्यः । गोशीर्षसन्निधिवशादपि पारिभद्रो
यच्चन्दनायत इतीह किमद्भुतं ते ॥१६६॥
अभ्यर्थयेत तव वा सुरशाखिनं स
स्वप्राङ्गणस्थमपि संवननाय जातु । तरिक स्वयं न दयिता भविताऽसि तस्य
यस्मादवन्ध्यफलदाः सुरपादपाः स्युः ॥१६७।।
तत्सार्वभौमकरिकुम्भजविभ्रमैस्ते
न स्पर्द्धतां किमु कठोरकुचद्वयीयम् । श्रीदस्त्वदीयकुचयोः करसञ्जनाता
दिक्कुम्भिकुम्भतलपातसुखं विधत्ताम् ॥१६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org