________________
पनसुन्दरमरिविरचित
नाकस्त्वया यदि परिष्क्रियते तदानी
सौभाग्यकल्पतरुरेव फलेग्रहिमें । भूःसङ्गता यदि तदप्यवतारयामि ।
द्यामत्र तावकमनःप्रमदाय तन्वि! ॥१३३।।
अन्तः सनाथयसि मे हृदयं चिरस्य
सद्यः प्रसह्य च बहिस्तदलङ्कुरुष्व । हारायतां तव भुजद्वितयाक्कपाली
वक्षस्यथ स्तनयुगं तरलायतां मे ।।१३४॥
आप्यायनाय नवतामरसैः सपर्या
सम्पादिता न विबुधानपि नो भवत्या । किन्तु त्वदहिसरसीरुहशीलनेन
मूर्द्धा सुपूजित इवाऽस्तु मुदेकहेतुः ॥१३५।।
कि किन्नरीषु रतसिन्धुतरीषु ताप
स्त्वद्विप्रयोगजनितः शममेति मेऽस्य । अध्यम्बुजा खलु तृषा मधुरादतीव
न क्षीरपाणत इह प्रशमं प्रयाति ॥१३६।।
दिव्यां सुधामधरयत्यधरः सुधैव
विश्राणयामि किमु तेऽन्तरतर्पणाय । यन्निजिगाय शशिमण्डलमाननं ते
कर्ताऽस्म्यहं ननु कदाऽस्य मुदा सपीतिम् ॥१३७।।
सान्निध्यतः सुतनु ! नोऽमरतां लभस्व
तन्नौचितीचणमिदं हि वचो विभाति । येन त्वदहिनवनीरजसञ्जनेन
जीवातुना ननु जिजीविषतीव माहक ॥१३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org