________________
यदुसुन्दरमहाकाव्य
४२
मन्दारमञ्जरिपरागकणान्वितन्वन्
प्रालेयशैलपरिशीलनशीतलोऽपि । मन्दानिलो न च मनो धृतयेऽस्य दुःस्थे
चेतस्यशेषमविषयमहो ! नु चित्रम् ॥१२७।।
लावण्यवारिधिशामपि किन्नरीणां
नेत्रन्धयः स्वनयनरनिमेषविघ्नैः । तार्तीयभागमपि पुण्यजनेश्वरोऽसौ
__ तृष्णपिपासति दृशस्तव चारुनेत्रे ! ।।१२८॥
भाविस्वयम्वरवरा जगतः प्रतीता
लोकश्रुतिः श्रुतचरा तव तन्वि ! तेन । सन्देशपत्रमिह मामिव सञ्चरिष्णु
___ त्वरलाभचाटुकृतये विनियुक्तवान्सः ॥१२९॥
आश्लिष्य स त्वयि भृशं सकुचोपपीडं
मृद्वनि ! सन्दिशति सप्रणयं नृधर्मा । स्वाऊरनजदहनोषितमेनमेहि
निर्वापयाशु परिरम्भतुषारसारैः ॥१३०॥
पुष्पायुधोद्धरनिषादशरापमृत्यो
. स्त्रायस्व मां तरलतारतरङ्गिनेत्रे ! । यद्वाऽस्तु तावककटाक्षशिलीमुखानां
__ पातैर्मृतिस्तु सुषमा तदनुग्रहो मे ।।१३१।।
सन्त्येव यद्यपि परे बहुशस्त्वदीय
- लीलाकटाक्षलहरीलवलुब्धचित्ताः । मां प्राणमात्रपणदानपर दयस्व
स्वीकारतोऽप्यनुगृहाण तथाऽपि भीरु ! ॥१३२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org