________________
पद्मसुन्दरसूरिविरचित त्वद्यौवनेन सममीशसखस्य हार्द
__ मध्यारुरोह धनुषीव गुणः स्मरस्य । सञ्चारिकापरिजनात्परिपीय गूढात्
त्वत्संकथां विदधतो मुदमान्तरेण ॥१२१।।
त्वद्विप्रलम्भपरितापजवैमनस्यात्
तरपे विलूनहरिचन्दनपल्लवानाम् । निद्राति न क्षणमहो ! फलदान्सुर द्रन्
निःपल्लवानपि चकार निकारनिम्नान् ॥१२२।।
चेतः प्रमोदयति चैत्ररथं न जातु
पुस्कोकिलस्य किल कोमलकूजितेन । नो चन्द्रचूडचरणौ शरणीकरोति
यश्चन्द्रचण्डकरचण्डतरप्रतापात् ॥१२३॥
किं चालकापुरि पुनर्भुवनानि यानि
तस्याक्षरच्युतकवन्ति विभौविभान्ति । आत्मानमप्यहह
__ वेद त्वया विरहितं बत वर्णशून्यम् ॥१२४॥
पुष्पेषु मार्गणगणप्रहतस्तदानीं
सख्य दधे स्मरहरेण स किन्नरेशः । पुष्पैस्तमर्चयति नो जगदर्चनीय
पुष्पोत्करान्मृदुतरादपि कांदिशीकः ॥१२५॥
स्वर्गापगाकमलिनीविसतन्तुरन्तः
सन्तापयत्यपि तुषारतरो म्रदीयान् । त्वन्मङ्घबाहुलतिकाम्रदिमोपमेयो
वैचिन्यमीश्वरसखस्य कियब्रवीमि ॥१२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org