________________
ये सुन्दर महाकाव्य
वास्तोः पतेरपि परिद्रढिमानमुच्चैः स्वैश्वर्यवीर्यविभवेन तृणीकरोषि ।
तत्तस्य कस्य कृतिनः सदनातिथित्व - मापत्पदाम्बुजयुगं तव तच्छृणोमि ।।११५ ।।
Jain Education International
एवं सुधारसकिरः सुगिरः सुदत्याः
तद्वाग्निसर्गमिषकामशराः सपुङ्खाः
कर्णाञ्जलीभिरभितः प्रमदान्निपीताः ।
प्रावीविशन्यदुपतेर्हृदयं निरस्ताः ।। ११६ ।।
अध्यास्य वामनयनार्पितभद्रपीठ
मुत्खाय मान्मथशरं स पुरश्वकार ।
धैर्य यथावसरमेव वितायमाना
भावाः प्रयान्ति खलु गौरवमत्युदारम् ॥११७॥
प्रेमप्रमोदभरमेदुरलोचनायां
तस्यामथोपरतवाचि स वाचिकानि । स्वस्वामिनो धनपतेः स्फुटचाटुकार
सान्द्राणि सानुनयमेवमुदाजहार ।। ११८
आतिथ्यतो विरम पीठमलङ्कुरुष्व
त्वद्भाविभर्तृधनदस्य च मां नियोज्यम् । दृत्याय सङ्गतमवैहि वुवूर्षुरस्ति
श्रीदः श्रिया निजदृशोस्तमुरीकुरु त्वम् ॥ ११९ ॥
विस्मापयन्ति तव शैशवतोऽपि चेतः
कौबेरमब्जसुकुमारतराङ्गि ! रङ्गात् ।
त्वद्रामणीयकगुणा रमणीयतार
हारा इव स्म परितः परिरब्धपूर्वाः ॥१२०॥
For Private & Personal Use Only
હું
www.jainelibrary.org