________________
पद्मसुन्दरसरिषिरचित सा वाग्जनिर्ननु मुधा विबुधान्समेत्य
न स्तौति मरसरितया किमुताल्पजल्पा । तस्यापि जन्म च धकित्कुशलद्रुहो यः
प्रादुःकरोति न सतोऽपि सतां गुणौघान् ॥१०९।।
तन्मां मुहुस्त्वरयतीह भवद्गुणौधो
रुच्यं दृशोः सुभगसुन्दरदर्शनं ते ।। संपिण्डितं नु सुधया किमु चन्द्रिकाभिः
पुजायितं मधुरसाभिरभिद्रुतं वा ॥११०।।
हुत्वा वपुर्गिरिशभालगाश्रयाशे
मन्ये पुनर्नव इवास मनोभवस्त्वम् । सौधाकर घटयति स्म विधिविधातु
बिम्ब त्वदाननरुचः प्रतिमानमेव
॥११॥
मुख्यो भवन्मुखमृगाङ्क इहैव साक्षात्
स्वत्कृष्णसारकचनेत्रमृगस्य सेव्यः । दृश्येतरत्वभजनान्ननु पक्षयोर्यो
__ गौणः शशी सकलुषः प्रतिभाति भाभिः ॥११२।।
गुम्फो गिरामधरयत्यपि गीः पतिं ते
गाम्भीर्यमेव गलहस्तयतीव वाद्धिम् । औदार्यमेव लघयत्यपि कर्णमुख्यान्
सर्वातिशायिचरितं तव चारुमूर्ते
॥११३।।
स्वर्गी भवानिकल तदा समलकृता द्यौ
रुत्तम्भितो भवसि भोगिषु भोगिलोकः । चेन्मानुषो वसुमती ननु रत्नगर्भा
स्वं विश्वविश्वजनमौलिकिरीटरत्नम् ॥११४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org