________________
यदुसुन्दरमहाकाव्य
उत्पिञ्जलत्वमपहाय विधाय धैर्य
मुत्थाय सन्नतमुखी स्वयमभ्युवाद । पाद्यं नतेन शिरसा सुविधेयमर्थ्य
सूक्तामृतैरतिथये मयि तन्न धाय॑म् ।।१०३।।
स्नातकाः किमिह ते न च येऽतिथिभ्यः
पादोपहारजलमासनदानपूर्वम् । न प्राञ्जलेन मनसाऽञ्जलिसञ्जनं वा
कुर्युः सगौरवमुदञ्चितरोमहर्षाः ॥१०४।।
तसिंहसंहनन! मे चरितार्थयेदं
सिंहासनं निजपदाम्बुजविश्रमेण । नो दयते तव मनो नलिनम्रदिम्नो
विद्वेषिणः पदयुगस्य विहारचारैः ।।१०५।।
निःश्रीकमेव कृतवान्कतमं व्यतीत्य
देशं पुरस्य यदिहाभरणीवभूव । का मं स्वनाम मयि च प्रकृते निवेद्यं
प्रायो हि नामपदमेव मुखं क्रियासु ॥१०६।।
द्वारस्थसौविदसुरक्षितसौधगर्भे
यत्स्वैरसञ्चरणमग्निशिखाप्रवेशः । प्रागल्भ्यमस्मि भवतो ननु निर्णिनीषु
स्तत्संशयालुमनसा वदतां वरेण्य ॥१०७।।
यद्रक्षिलक्षदृगलक्षित इत्थमागा
भूयस्त्वदाचरितसच्चरितानि बीजम् । सौन्दर्यतर्जितरतीश सुसङ्गतोक्तै
मकर्णयोर्घटय पारणकं सुधायाः ॥१०८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org