________________
पद्मसुन्दरसरिविरचित कोणे दृशः पतति तत्र महीमधोनि
- तस्याः प्रमोदभववाष्पसगद्गदोक्तैः । सांदृष्टिकं फलमिवा शुगमाततज्ये
स्वं संदधे धनुषि पुष्पशरस्तदैव ॥९॥
सव्यापसव्यशरमुक्त बभूव कामो
लीलाचलैर्मगदृशो नु दृशोः कटाक्षैः । प्रापय्य वृष्णिजशरव्यमुदीतरोम--
हर्षव्रणाकिततर्नु सहसा चकार ।।९८।।
तस्यास्तदङ्ग मुकुरे सुनिखातदृष्टिः
कष्टान्निमिष्य समियाय परप्रतीकम् । स्याद्विघ्ननिघ्नमतिहृद्यमपीह वस्तु
सगे निसर्ग इति चेत्किमु तत्र चित्रम् ॥९९।।
तद्वमकान्तिभरनिझरमज्जने स्म
खञ्जायते नयनखजनयुग्ममस्याः तत्पञ्चशाख मुखपाणिसरोरुहेषु
चिक्रीड केलि कमनीयगतागतेन ॥१०॥
साऽऽनन्दथूपनतसान्द्ररसोमिमग्ना
जातु भ्रमश्रमविमोहवशा क्शावत् । तन्मुक्तकामुकदशा द्वयभाविभोगं
यादृच्छिकं नु बुभुजे यदुदर्शनेन ॥१०१॥
प्रष्टुं न शेकुरिति ताः कथमित्थमागा
स्त्वं कोऽसि मन्मथशरव्रणितैर्विहस्ताः । अभ्युत्थितिं विदधिरे न तदातिथेयीं
ब्रीडाविनम्रवदनाः प्रमदा हि मुग्धाः ।।१०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org