________________
यदुसुन्दर महाकाव्य
रुद्धाऽऽलिभिः सकिलिकिञ्चितनर्ममर्म
वक्रोष्ठिका छुरित कोक्तिषु कोविदाभिः । aforareas कङ्कणकिङ्किणीका
Jain Education International
तेन व्यलोकि कनका कनकावदाता ॥९१॥
पुंसो मया प्रतिकृतिर्ददृशे ब्रुवाणः
कोsपि श्रुतः किमपि मे भवदङ्गलमम् । न्यासोऽत्र कोsपि पदयोः पदमित्थमेष
पार्षद्ययौवतगरामशृणोत्प्रचारम् ||१२||
दृष्टमपि क्षितिपतेस्तनयां समक्षं
भ्रान्तिस्मृतामिव जडीभवदङ्गवृत्तिः । मेने पराऽपि यदुमक्षसमक्षलब्धं
संवेशदृष्टमिव तं समुदीतमोहा ॥९३॥
निर्बाधरूपमनयोर्नु मिथोऽनुराग
स्तम्भेन चित्रलिखितप्रतिमं बभासे । प्रत्यग्रमार्तघटवज्जलमीक्षणेऽङ्ग
लावण्यमेव पपतुः स्फुटलब्धबोधे ॥ ९४ ॥
उन्मीलितं तमथ ता ददृशुः सुनेत्रा
उन्मीलिते क्षणधियः पुलकाङ्किताङ्गाः । कादम्बिनीपटलनिर्गतचन्द्रविम्बं
वीक्ष्येव दृक्प्रसृतिभिर्निपपुः समेताः ||९५||
सद्यो विभेद कनकाऽऽननपद्ममुद्रा वार्ष्णेयमञ्जुलमुखांशुमदीक्षणेन ।
क्या पहनुते मुदिरमण्डलमंशुमालि --
तेजः क्रियद्विबुधगीः सुभगं भवन्तम् ॥९६॥
For Private & Personal Use Only
४३
www.jainelibrary.org