________________
४२
Jain Education International
पद्मसुन्दरसूरिविरचित
तस्याङ्गसङ्गमधिगत्य परा मृगाक्षी
भूयस्तदहिपदवीमदवीयसी ताम् । नीराजनां विदधती नयनारविन्द
प्रेङ्खोलनैरिव ससम्भ्रममेकताना || ८५||
तच्छायमेव निपपौ निजयष्टिभेद
मुक्तामणिष्वनुकृतं मृगशावकाक्षी । अप्येकपत्न्यभिसमीक्षणजातलज्जा
स्वां सञ्जहार दृशमुद्गतरोमहर्षा ||८६॥
भ्रान्त्वा विशङ्कितमना उपकारिकायां
सौधाङ्गणे समपनीय परिश्रमं सः । आलिख्य तत्र कनकामथ सन्दिदेश
याबदद्भुतं कलकलैर्बुबुधेऽङ्गनानाम् ॥८७॥
स्तम्भैर्हरिन्मणिमयैः शुचिपद्मराग
भित्तिप्रभाभिरभितः स्फुटचाकचिक्यम् | तद्रामणीयकमणीरमणीयचित्र -
मत्रकर्षं नृपतिधाम समारुरोह ||८८||
तत्र स्फुटस्फटिकचत्वरमध्यमग्न
मार्तण्डमण्डललसत्प्रतिमानरम्ये ।
प्रासाद शैलशिखरे कनकामुखेन्दु
मुद्यत्तमं कलयति स्म सविस्मयोऽसौ ॥८२॥
तस्याः सुधामधुरमद्भुतधामरूपं
लावण्यवारिधिभव सुदृशा निपीय । दिव्यानुभावत इहाविरभूत्स भूयः
सौभाग्यशेवधिरनाकलनीयशक्तिः ॥ ९० ॥
For Private & Personal Use Only
www.jainelibrary.org