________________
यदुसुन्दरमहाकाव्य
११
दौवारिकस्य परविप्रतिषेधवाच।
त्वं कोऽस्यरेऽपसर सोऽपि विशङ्कमानः । ग्रीवां विभुज्य चकितः क्षणमित्यपास्त
शङ्कः परामथ विवेश निशान्तकक्षाम् ।।७।।
नियूहबन्धुरविटङ्कविनीलपक्षि
छेकोक्तिपल्लवितताण्डवगेयरम्यम् । तद्गर्भधाम विचचार नदन्मृदङ्ग
रङ्गत्कृशाश्विगणमाशु यदुर्विशङ्कः ।।८।।
चर्चिक्यमेव दधतीं यदसंवृतानी
काञ्चिद्विलोक्य पिदधे दृशमात्मनीनाम् । नासीरचारिजनयौवतघट्टनेन
___ सद्यश्चमच्चरिकरीति मुहुः स्म शौरिः ।।८।।
शिश्लेष काचिदपरा स्वभुजोपपीडं
काचिन्नखैर्ऋणयति स्म समापतन्ती । काऽप्यारागभरविच्छुरिताङ्गमेनं
तत्रोपभुक्तमिव चक्रुरदृश्यमेताः ।।८२॥
पस्पर्श काऽपि सुतनुस्तनुहृष्टरोमा
शोभां बभार करकन्दुकमाक्षिपन्ती । सङ्घट्य शौरिमथ तां परिवृत्यलान ।
भ्रान्ता समीक्ष्य न चिखेल परा सखीषु ।। ८३।।
लीलावतीललितविभ्रमहावहेला
कल्लोललोलितमपि प्रभुमानसं न । कालुष्यमाप सति वैकृतसम्भवे हि
न क्षोभमेति धुरि धीरधियां स धन्यः ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org