________________
रूपं दृशोस्तव गुणश्रवणं श्रुती मे
जिह्वाधर तनुमनुस्फुटमङ्गसङ्गः । घ्राणं मुखश्वसनतोत्कलिका मनो मे
प्रहलादयत्यपि च संलयसङ्गतायाः
॥१३९।।
आदित्य एष तव दोःपरिवेषमिच्छं
स्तन्मण्डयाशु मदुपनमनन्यनिघ्ने । वामाक्षि ! वामविधिरेव मम प्रसून
बाणव्रणैरितरथा हि शरव्यितस्य
॥१४॥
इत्येकपिङ्गगदितानि सुवाचिकौघ
___मुक्ताफलानि कुरु कण्ठविभूषणानि । स्वप्रेमसूत्रततिसेवनतः सुकेशि !
दूत्यं विधेहि फलिनं वरणेन तस्य ॥१४१॥
एषा नृपाद्धनदवाचिकधारयात्तां
. वाचं निशम्य भृकुटीकुटिलाननासीत् । अण्यान्तरे हि विषमे बहिरिजितस्य
वैषम्यमेव निगदन्ति यदिनितज्ञाः ॥१४२।।
तद्वाचिकान्यवगणय्य धराधर्व तं
नम्रानना मृदुलमजुलचाटुसूक्तिम् । आचष्ट केयमिति वश्चनरीतिरात्थ
पृष्टं यदन्यदपि कैतवकौशलेन ॥
॥१४३॥
किञ्चित्प्रकाशविशदा नु सरस्वती ते
गूढेगिता क्वचन चापि सरस्वतीव । पीयूषसोदररसा मम चाटुगर्भा
श्रव्या न कोऽपि सुधयाऽधिकया नु तृप्येत् ॥१४४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org