________________
ફૂટ
Jain Education International
पद्मसुन्दरस्ररिविरचित
जीवातुर्मम किल जीवितस्य याssस्ते
तामेष व्यवहितवञ्चनादभीप्सुः । नाश्वासः सुहृदि न सौहृदेऽदसीयेsप्यौचित्यं निकृतिपरेषु वक्रतैव ।। ६१ ॥
गीर्वाणा मम दयिताप्तयेऽर्थनीया
मामेव प्रणिधितयाऽपि तेऽर्थयते । अर्थार्थी प्रणिहितकृत्य सिद्धिहेतोः
सन्मानक्षितिमपि गौरवं मिमीते ॥ ६२॥
यद्वाऽस्तु प्रणयविहायिताधमण
यक्षेशः किमुत ममोत्तमर्णतैव । मत्कृत्याकरणिरथो परार्थसिद्धयै
स्वीच तदिति विमृश्य शौरिराह ॥ ६३ ॥
मादृक्षः कथमनृणी भवेन्नृडिम्भो
नाकियो नयनपथातिथी भवद्भ्यः ।
यद्वा मे प्रतनतपः सुरद्रुमाणां
साफल्यं यदजनि साधुदर्शनं वः ||६४ ॥
इज्याभिर्यमनियमोपहारमन्त्रै
राराध्याः स्मरणह विष्यतर्पणैर्वा । प्रत्यक्षास्त इति ममापि दिष्टमिष्टं
यत्स्वाहाभुजइह मानिनोऽर्थयन्ते ।। ६५||
मन्दारान्यदवगणय्य दातृमुख्यान्
मय्येव प्रथितयशः प्रदातुकामाः ।
स्वर्लोकावतरणमेव देवपादा
श्चक्राणाः फलितमहो ! मदुग्रपुण्यैः ।। ६६ ।।
For Private & Personal Use Only
www.jainelibrary.org