________________
यदुसुन्दरमहाकाव्य
आदित्या जगति सुधान्धसः सुधैव
प्रत्यक्षा कनककुटद्वयाऽभिदावत। यत्प्रादुर्भवनमहो ! दृगेकपद्यां
तच्चक्षुर्भवतु निमग्नमेव तस्याम् ॥६७॥
त्वत्प्रेक्षामुकुरतले जगत्समग्रं
सङ्क्रान्तं किमु कथनीयमस्ति मेऽस्य । यद्विज्ञापयति शिशुस्तथाऽपि माक्
'श्रद्धेयं शुकरुतवद्विपाकहृद्यम् ॥६८॥
यास्यामि द्रुतमुपमृद्य विघ्नसङ्घान्
शुद्धान्ते कथमपनीय यामिकादीन् । यः पुम्भिद्रविगमोऽवरोधगर्भः
सुप्रापो युवतिजनश्च सौविदल्लैः ।।६९।।
मां वीक्ष्य क्षितिपसुता वरीतुकामा
मन्दाक्षप्रणतशिरोधरा भवित्री। ब्रूता हे कथमुत वाचिकं नु तस्याः
संशीतिर्मनसि विगाहते ममेति ॥७०॥
इत्युक्त्वा यदुतनयः सजोषमास
प्रारेमे गदितुमथोऽस्य राजराजः । प्रेष्याधैर्दुरभिभवोऽवरोधचारेऽ
प्यन्तर्धिर्भवतु ममानुभावतस्ते ॥७१॥
प्रस्थास्नोस्तव सविधं नृपात्मजायाः
प्रत्यक्षा भवतु तनुः परैरलक्ष्या । स्वीकुर्वन्धनदवचो यदुः प्रतस्थे
देवानां ननु मनसैव कर्मसिद्धिः ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org