________________
पद्मसुन्दरसरिविरचित अश्वाऽश्वं जवनमथी मगेन्द्रशावं
सिंही गौर्जनयति धुर्यसौरभेयम् । ऐन्द्रीदिग्दशशतरश्मिमुग्रमूर्ति
वीरं त्वां ननु भुवि वीरसूः प्रसूस्ते ॥४९।।
माकन्दश्चलदलपारिभद्रमुख्याः
सच्छालाः कपिपिककाकजीवनीयाः । कल्पद्रुः सदयदिवौकसां प्रकाम्यः
स श्लाघ्यो जगति भवानिवापरे किम् ।।५०॥
पर्जन्यः किल शितिकण्ठकण्ठनीलो
विकृष्टस्तनितरवोऽर्णसां पृषन्ति । द्वित्राणि प्रकिरति चातकस्य चञ्चौ
सा दित्सा किमुत कदर्यतैव नूनम् ।।५।।
साम्राज्यं वसुवपुरङ्गनादिहये
वस्तूनि प्रमदकराणि गत्वराणि । संचिन्वन्नसुभिरनश्वरं यशः स्व
तृण्यावद्गणयति तानि यन्महेच्छः ॥५२॥
भूयांसो नृपतिलकास्त्वदन्ववाये
येऽर्थिभ्यः सनिजनिपूर्तये धुरीणाः । तद्वंश्ये भवति किमद्भुतं यदा सा
__ सर्वाशा निजयशसा समापय त्वम् ॥५३॥
भ्रभङ्गो वदनशोस्तिरोहितत्वं
हालक्ष्येऽर्थिनि मनसो विलक्षता च । दोषास्ते सति हि विदूषयन्त्यभिख्यां
मा भूस्तैस्त्वमपि कलङ्कितः शशीव ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org