________________
३४
Jain Education International
पद्मसुन्दरस्ररिविरचित
सद् गन्धाढ्या गन्धकल्यावभासे
चूडाचुम्बिन्यप्रतश्चम्पकद्रोः । लीनालीनामञ्जनव्याजतो या
पञ्चेषोः किं दीपिकेव ध्वजिन्याः ||३७||
दृष्ट्वा पुष्पं पाटलं पाटलायाः
शौरिर्मेंने कामकाण्डीरतूणम् ।
तस्यामोदाद्गारसारं स जिन्
मूर्तभ्रान्ति भीलुकः सन्बभार ||३८||
तेनादर्शि स्फीतशाली रसालो
गुञ्जभृङ्गक्रोधहुङ्काररावः ।
विभ्राणो यो भत्सैनां विप्रयुक्ता
न्वातोद्वेल्लन्मञ्जरीमञ्जुहस्तैः ॥३९॥
सम्भाविन्या बल्लभायाः कुचाभान्
कुम्भान्कामस्याभिषेकाय हैमान् ।
भूपोऽद्राक्षी दाडिमद्रोः फलानि
वृतान्यारामश्रियः कन्दुकानि ॥४०॥
गन्धान्धभ्रमरकुलाकुलं वियोगि
स्वान्तिथः क्रकचदलश्रियं दधानम् ।
अस्पृश्यं हरचरणैः सकल्मषत्वाद्
वार्ष्णेयः कथमिव केतकं ददर्श ॥ ४१ ॥
खण्डेन्दु प्रतिभशिलीमुखं पलाशं
रक्ताक्तं विरहिजनाध्वनीन बेधात् ।
मेने यन्मनसिजधन्विनो महीप
स्तन्नूनं नयनपथं निनाय नैव
For Private & Personal Use Only
118211
www.jainelibrary.org