________________
यदुसुन्दरमहाकाव्य करतले स्वकपोलतलं दध
___ त्यविरतं स्रवदश्रुपृषत्कणैः । स्वभुजवल्लिमसिञ्चयदान्तर
प्रभुदवग्रहशोषितविग्रहाम् ॥३१॥
सुदति ! ते हृदये दयितः स्थितः
किमु विषीदसि तत्परिदेवनैः । नयनयोः स बहिनहि गोचरः
सखि ! ततो मनुते न मनोमुदम् ॥३२॥
इति विलप्य मुमूर्च्छ मुहुर्मुहु
विरहजज्वरसञ्ज्वरजर्जरा । जलजशीतजलव्यजनानिलै
रियमुपास्यत साधुवयस्यया ॥३३॥
अथ वयस्ययुतो यदुनन्दनो
नु समया पुरगोपुरमासदत् । स कनकाजनकार्पितगौरवः
सुखमुवास निवासमनुत्तमम् ॥३४॥
तूत्राक्रीडेऽशोकनव्यप्रवाला
नीक्षाञ्चके शौरिरस्तोकलोकः । भ्रान्त्या भूभृन्नन्दिनीपाणिपद्म
प्राग्रप्रेङ्घद्रोचिषामेकतानः ।।३५॥
तच्चाम्पेयं चारुचूडाग्रजान
हाम्यभृङ्ग कुड्मलं मन्यमानः । दग्धं कामिस्वान्तमुच्चैः पराग
ज्वालाजालं धूमकेतुं ददर्श ॥३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org