________________
यदु सुन्दर महाकाव्य
वरयता मम शौरिनृपात्परो
मनसि जातु यदीत्थमचिन्तयम् ।
विरहवायुसखे स्म जुहोति या
Jain Education International
किमिति पाण्डिमशुद्धमभूद्वपुः ॥१९॥
असुतृणानि परासुधवे न याः
शिखिनि जुह्वति यत्तनुदाह के ।
विरहवह्निशिखामसहिष्णवो
ननु महाधिदुरन्तदरद्रुताः ॥२०॥
विरहदाहशमाय गृहाण या
निजकरेण सरोजमुरोजयोः ।
द्रुतमपि श्वसितोष्णसमीरणा
दजनि मुर्मुर इत्यजदात्ततः ॥२१॥
मदनयौवनवृष्णिशासनां
बहुनृपां सुतनोर्नु तनू पुरीम् ।
तनुरुचः करदानतया जहुः
किमजनिष्ट कृशा नु कृशोदरी ||२२|
किमुत वृष्णिजहृत्सुमुखीमुखं
व्यधित यद्विधुकान्तमतिभ्रमात् । इति न चेत्तदिदं हि विधूदये
किमु दृशोऽस्रपयः समदुद्रवत् ||२३||
यदिदमैन्दवमण्डलमात्मभू
विजयकृदहनास्त्रमिवाक्षिपत् ।
तदपनुद्वरुणास्त्रमुपाग्रहीत् ॥ २४ ॥
तत इयं सवदश्रुजलच्छलात्
For Private & Personal Use Only
३१
www.jainelibrary.org