________________
पद्मसुन्दरमरिविरचित
मृदुतनोहृदि बाप्पजलाविले
__ प्रतिकृतिर्यददृश्यत वक्त्रजा । यदुनृपं किल वीक्षितुमत्रगं
व्यधित नम्रमुखी सविधं मुखम् ॥१३॥
श्वसनमारुत एव वियोगज
ज्वलनमुज्ज्वलयत्यभितो हृदि । विषमबाणमहेश्मसमेधितं
कलयति स्म तदन्तरितां दशाम् ॥१४॥
मदनचित्रकरः सुदृशः सुदृक्
किरणतूलिकया किमचित्रयत् । सकलदिग्वलयं यदुमूर्तिता
मयमयन्तरदान्तररजभृत् ॥१५॥
अनुमितो हृदये विरहानल:
श्वसनबाष्पचयैः क्षितिभृद्भुवः । तदपि बाष्पजलानि बलादथो
विघटयन्त्यनुमित्यनुलिङ्गताम् ॥१६॥
मृदुतनो मृदुहृन्निहितैः सुमै
निजशरैरिव यत्कुसुमायुधः । ननु दुनोति विनोदयति स्म त
मृदुषु मार्दवसञ्ज्वरता नयः ॥१७।।
प्रहरता हृदि तां यदुपुङ्गवः
__ स्वनिलयः स्वशरैरपि चिक्षिणे । कुत इयं मदनेन निजस्थिति
क्षयकरी कलिता किल धन्विता ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org