________________
Jain Education International
यदुसुन्दर महाकाव्य
न विददार हृदुग्रवियोगज
ज्वलनतः सुतनोर्यदुपहितात् ।
कुचसुधाकुटयोर्महिमा हिमा-
दतितरामधिको नु विगाहते ||७||
नयनयोर्निरगाद्यदधीरिमा
स विललास विला सवतीवपुः । किमु जडत्वमियाय तनूरनु
प्रथितशौरिकथा जलमज्जनैः ||८||
विगलितं वलयैः सममश्रु निः
श्वसनदीर्घतया निशया स्थितम् ।
तनुतया निजजीवितवाञ्छया
विलसितं दुहितुः पृथ्वीशितुः ||१||
दिनशशिप्रतिमाननपङ्कजा
हिमनिपातगलत्कदलीनिभो.
तपन शुष्क सरोऽब्जस टक्करा ।
रुयुगला समपद्यत साऽबला ॥१०॥
मुखरुचा नु जिगाय यदम्बुजं
तदपि तामदुनोच्छयनीयगम् ।
समयमेत्य महद्विपदां किल
क्वचन हीनबलोsपि बली भवेत् ॥ ११ ॥
तरुतनूरुहजन्यधतो ब्यथा
भवति तत्र विलासवतीहृदि ।
यदुजभूभृदसौ स्थितिमाश्रय
द्यदुत बाधत एव किमद्भुतम् ॥ १२ ॥
For Private & Personal Use Only
२९
www.jainelibrary.org