________________
॥ तृतीयः सर्गः ॥ कनकवत्यपि शौरिदिदृक्षया
व्यवहिते खचरप्रणिधौ भृशम् । शशिकलेव कृशा समजीजनद्
विरहसज्वरजर्जरविग्रहा ॥१॥
विषमबाणकलादकलावता
प्रियवियोगकषस्फुटसाक्षिणी । कनकराजिरियं कनकातनुः
किमुदपादि महाधिनिघर्षणैः ॥२।।
द्विनृपभूः सुविचिन्त्य सुमेषुणा
किमिति यौवनपालवनी जनी । तनुलता सुतनोर्नु तनूकृता
दयितयौजनजीवनवञ्चिता ॥३॥ सखि ! दिवा नु बभूव विधेर्दिनं
ननु निशानिमयो मरुतां निशा । न गणनामपि कालविदोविंदु
मम वियोगकृतामिति साऽब्रवीत् ॥४।।
विरहजूर्तिनिदाघरुजार्दिता
यदुकथाहरिचन्दनमण्डनम् । विदधती विषमां रुजमायसा
हतविधेरहह ! प्रतिकूलता ।।५।।
स्तननिपौ ननु यौवनकारुणा
कृततरौ विरहानलसङ्गतौ । पुपुषतुढिमानमहो ! गुणं
विगुणता सुतनोस्तनुते तनौ ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org