________________
यदुसुन्दरमहाकाव्य
तत्त्वं सनाथय सनाथ ! इति ध्रुवं मे
त्वद्वाचिकप्रणयनप्रवणैकवृत्तेः । जानीहि कामतरुकामगवीनिकाम
कामप्रदो हि महतामिह तु प्रसङ्गः ॥७३।।
यो ह्रीणमानसदरीकुहरेऽधिशेते
तं कण्ठकन्दलपथं नु कथं नयामि । कौलेयकं खलु विगायति मुक्तलज्जं
लोको ममानुभव तस्य भवानभिज्ञः ।।७४।।
यः प्राणदानपणलभ्यनिभालनो मे
प्रेयान, घटयता निरमायि सर्वम् । लोकश्च पुण्यमपि जीवदयं त्वया तत्
स्थैर्या सहे खलु विलम्ब्य यतस्व कृत्ये ॥७५।।
तभारतीमधुरसां परिपीय कर्ण
पात्रेण मञ्जलगिरा मुहुरप्यवादीत् । विद्याधरः क्षितिपुरन्दरपुत्रि ! धीरं .
चेतो विधेहि करणीयमिदं मयैव ।।७६।।
त्वत्प्रेसस्कन्धवन्धस्त्वहजुभुजयुगाश्लेषशाखो दली स्यात्
त्वत्पाणिभ्यां त्वदहिद्वितयकिशलयः पुष्पितस्त्वस्मितेन । मन्ये त्वन्नेत्रचञ्चद्रुचिरुचिरजलैरालवालैः परीत
स्त्वद्वक्षोजप्रवेकैः फलित इवतरां शौरिपुण्यामरद्रुः ।।७७।। कामस्त्वां तन्वि! धन्वी तनुरुहलतिकाशिञ्जिनी शुद्धवंश्यां
लब्ध्वा कोदण्डयष्टिं विकलितकुसुमेष्वासवीर्यो नृपेऽस्मिन् । मन्ये त्वन्नेत्रवाणव्रणिततनुममुं शौरिवेध्यं विधाता
त्वन्मध्ये लस्तके वा निबिडतरकरमाहबद्धैकमुष्टिः ।।७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org