SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पभसुन्दरसरि विरचित शके सुन्दरि ! नाभिसुन्दरदरीमध्यस्थितस्त्वत्कुच द्वन्द्वाकोटजमण्डिते तनुरुहश्रेणीलताशा द्वले । त्वदेहाश्रम एव नेत्रहरिणद्वन्द्वास्पदे तप्यते भ्रधन्वा दशनेषुरेष मदनः शौरिं विजेतुं तपः ॥७९।। शौरिस्ते नेत्रवापीरुचिनलिनचयं मण्डयिष्यन्मदुक्ति स्फूर्जत्सौरभ्यलुभ्यमर इव सुधास्यन्दिरूपं पिपासुः । आगन्ता त्वत्सरस्वत्यमृतलहरिभिर्जीवनीयैर विप्नः __ कर्ता हे ! हेमदाम्नाऽरुणमणिरचनां तेन यूनाहमेषः ।।८०॥ मां जानीया भविष्यद्रमण मृदुपदद्वन्द्वकान्तारविन्द भ्राम्यद्भुङ्ग च चन्द्रातपमिह सुदतीहक्चकोरद्वयस्य । भूयात्ते हार्यरूपः पतिरिति विदुषि ! त्वादृशो मन्निदेशात् तेनालप्येति दृष्टयंवदध इव नो मानसान्मानवत्याः ॥८१॥ शौरिं चित्तेऽधिकृत्य क्षितिपतिदुहितुर्वाचिकोदारगुम्फ ___ मध्येकृत्य प्रतस्थे खगपुरमचिरात्प्राप विद्याधरेन्द्रः । पश्यन्ती सा दिशोऽष्टौ विरहविधुरिता शौरिरूपैकताना ब्रवाऽद्वैतरूपं प्रणिहितमनसः सच्चिदानन्दसान्द्रम् ॥८२।। प्रेमोदन्तं शशंस क्षितिपतितनयाशंसितं शौरये स प्रत्यादिष्टान्यशिष्टिर्गदितमनुवदन्सोऽपि पप्रच्छ भूयः । शृण्वन्नुद्भिन्नरोमा प्रियवचनचयं प्रेमतो नाप तृप्ति प्रेमालापैः प्रियाणां नवरसनिलयैः को नु सौहित्यमेति ।।८३।। शौरिः संवेशलब्धामपि कनकवतीं स्वं सुधास्वादतृप्तं मेने भूयः शयालोस्तदधिगमधिया मक्षु विद्राति निद्रा । किं माया शम्बरारेरियमजनि जनी शाम्बरीयैकरूपा नानारूपप्रतीतेनसि नरपतविभ्रमत्वं विभर्ति ।।८४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002642
Book TitleYadusundara Mahakavya
Original Sutra AuthorPadmasundar
AuthorD P Raval
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy