________________
पनसुन्दरसरिविरचित मया यदालेख्यपटे व्यलेखि ते
पतिः स नूनं भविता पतिवरे । जगाद चैतत्प्रतिमानतस्तदा।
तदागमे त्वं किल लक्षयेरिति ॥६७।।
तदा तदालेख्यमधीशकन्यया
निरीक्ष्य तद्पनिमग्नचेतसा । व्यचिन्ति चेन्मे दयितो भवेदयं
तदा नु राकाशशिनोयुतिः शुभा । ६८।
अहो ! मनोवेद्यमिवानुवेदकः
प्रधावतीष्टं तरसा सुदूरगम् । अपाणि निघ्नाच्च सुधां सुधाकरा
धतः प्रियं नाथति नाथमात्मनः ॥६॥
अपत्रपामन्थरतारतारया
दृशा निरैक्षिष्ट तया नभश्चरः । उवाच वाचं मृदुमञ्जभाषिणी
कथं घटामञ्चति धीर ! दुर्घटम् ।।७०॥
क्व तावकं दर्शनमेति माशां
दृशां सपीतिं क्व च शौरिजन्मनः। शिखानचुम्बीनि फलानि भूचरै
ने खर्वशाखैः सुलभानि मूरुहाम् ।।७१॥
लज्जाकूपारपूरप्रसृमरपरमामोदमेदस्विवीची
संवीतं विश्वविश्वं मन इह मनुते दर्शनादस्य यन्मे । तन्मन्येऽणोः समुद्रः कथमिव निरगात्कां मुदं कान्तसङ्गः
कर्ता वाचो न वाचो न धिषणधिषणा वक्तुमीशा नु लेशम् ।।७२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org