________________
यदुसुन्दरमहाकाव्य
खगेश्वरस्तां प्रशशास कोशल:
सुराजनीतिप्रथितैककौशलः । सुकोशला तत्तनुजा जगज्जनी
शिरोमणिः केतकगर्भकोमला ॥६१।।
धवोऽस्ति तस्या यदुवंशपुष्कर
प्रकाशनार्को वसुदेवसंज्ञितः । यदाननस्य प्रतिमानमिच्छुकः
शशी परिभ्राम्यति नित्यमम्बरे ॥६२।।
यदीयवक्त्रप्रभया विनिर्जिता
सरोजराजी मलिनाननालिभिः । प्रतापतो यस्य किलोपसूर्यकं
बभार सूर्यः स्वनिकारताऽङ्कनम् ॥६३।।
सुगोपुरद्वारकपाटवक्षसा
___जयेन्दिरास्तम्भविसारिवा हुना । नृपेण तेनैव हि वीरसूः प्रसूः
स्वीकीर्तिविस्फूर्तिपराजितेन्दुना ॥६४॥
स वा यवीयान्जनमौलिशेखरो
महद्गुणारामकरामणीयकः । भवत्यथो यौवतमौलिमण्डनं
वधूवरद्वन्द्वमिहास्तु वां सहक् ।।६५।।
तदौचितीमञ्चति पञ्चमस्वरः
पिको यदा जक्षिति चूतमञ्जरीम् । फलेग्रहिः स्यान्नरजन्मता द्वयोः
समीहते त्वां सुभगः स चेयू वा ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org